CES | IIT JAMMU

Course Completion: Certificate in Sanskrit Language Course

An introductory certification course in Sanskrit Language is introduced by the Department of Non-Formal Sanskrit Education Centre at IIT Jammu. The course was completed under the supervision of Dr. Amitash Ojha, Assistant Professor of Humanities and Social Science Department of Indian Institute of Technology and the Instructor Sri Biswarup Bej of the Department of Non-formal Sanskrit Education, Central Sanskrit University, Delhi.

जम्मूस्थितभारतीयप्राद्योगिकीसंस्थायाः देहलीस्थितकेन्द्रीयसंस्कृतविश्वविद्यालयस्य च सम्मिलितप्रयासेन जम्मूस्थितभारतीयप्राद्योगिकीसंसस्थायाम् अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य सञ्चालनमभवत्। देहलीस्थितकेन्द्रीयसंस्कृतविश्वविद्यालयस्य मुक्तस्वाध्यायपीठस्य अनौपचारिकसंस्कृतशिक्षणविभागेन प्रप्रथमतया अस्यां भारतीयप्राद्योगिकीसंस्थायां प्रारम्भिकसंस्कृतपाठ्यक्रमरूपेण संस्कृतभाषाप्रमाणपत्रीयपाठ्यक्रमः इत्याख्यस्य अवतारणा कृता। जम्मूस्थितभारतीयप्राद्योगिकीसंस्थायाः मानवीयसमाजविज्ञानविभागस्य सहाध्यापकस्य डा. अमिताशओझामहोदयस्य तत्त्वावधानेन तथा देहलीस्थितकेन्द्रीयसंस्कृविश्वविद्यालयस्य अनौपचारिकशिक्षकस्य श्रीविश्वरूपवेजमहोदयस्य पाठदानेन पाठ्यक्रमोऽयं सम्पूर्णताम् अगात्। पाठ्यक्रमेऽस्मिन् पञ्जीकरणार्थं न्यूनतमयोग्यता भवति दशमश्रोण्याः उत्तीर्णता। पाठ्यक्रमोऽयं न केवलं प्राद्योगिकीसंस्थायाः विद्यार्थीनां कृते अपि तु अत्रस्थानां कर्मचारीणां तत्परिवारजनानां तता सामाजिकानां संस्थाबहिर्भूतानां कृतेऽपि उद्घाटिता वर्तते। सम्पूर्णपाठ्यक्रमः अफलाइनमाध्यमेन पाठ्यते। अत्यनतानन्दस्य विषयस्तावत् २२-२३ इति शिक्षावर्षे पञ्जीकृताः सर्वे विद्यार्थीनः अत्यन्तसाफल्यतापूर्वकं पाठ्यक्रमे उत्तीर्णतां प्राप्तवन्तः। जम्मूस्थितभारतीयप्राद्योगिकीसंस्थायापरतया तथा देहलीस्थितकेन्द्रीयसंस्कृतविश्वविद्यलयपरतया च कृतीणां कृते हार्दं शुभेच्छाम् अभिनन्दनं च व्याह्रीयते। संस्कृतानुरागीणां कृते तथा संस्तृतज्ञानपिपासूनां कृते पुनः संस्कृतभाषाप्रमाणपत्रीयपाठ्यक्रमस्य सञ्चालनं प्रारब्धम्। किञ्च जम्मूस्थिते भारतीयप्राद्योगिकीसंस्थायां प्रमाणपत्रीयपाठ्यक्रमे उत्तीर्णानां कृते संस्कृताध्ययनं दृढीकर्तुं संस्कृतभाषादक्षतापाठ्यक्रमस्य शुभारम्भः सुसम्पन्नः।